(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.68. अध्यायः 068
Mahabharata - Adi Parva - Chapter Topics
जरासन्धादीनां संभवः॥ 1 ॥ द्रोणादीनां संभवः॥ 2 ॥
धृतराष्ट्रादीनां संभवः॥ 3 ॥ दुर्योधनादीनां संभवः॥ 4 ॥
युधिष्ठिरादीनां संभवः॥ 5 ॥
धृष्टद्युम्नादीनां संभवः॥ 6 ॥
पृथाचरित्रं। कर्णोत्पत्तिश्च॥ 7 ॥
बलरामादीनां संभवः॥ 8 ॥ द्रौपदीसंभवः॥ 9 ॥
कुन्तीमाद्र्योः संभवः॥ 10 ॥
Mahabharata - Adi Parva - Chapter Text

जनमेजय उवाच। 1-68-0x(324)(2951)
देवानां दानवानां च गन्धर्वोरगरक्षसाम्।
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम्॥ 1-68-1(2952)
अन्येषां चैव भूतानां संभवं भगवन्नहम्।
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्।
जन्म कर्म च भूतानामेतेषामनुपूर्वशः॥ 1-68-2(2953)
वैशम्पायन उवाच। 1-68-3x(325)
मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः।
प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्वशः॥ 1-68-3(2954)
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः।
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः॥ 1-68-4(2955)
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः।
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः॥ 1-68-5(2956)
संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः।
स शल्य इति विख्यातो जज्ञे वाहीकपुङ्गवः॥ 1-68-6(2957)
अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः।
धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः॥ 1-68-7(2958)
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः।
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः॥ 1-68-8(2959)
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः।
भगदत्त इति ख्यातः सं जज्ञे पुरुषर्षभः॥ 1-68-9(2960)
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्।
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः॥ 1-68-10(2961)
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः।
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः।
केतुमानिति विख्यातो यस्ततोऽन्यःप्रतापवान्॥ 1-68-11(2962)
अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः।
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः॥ 1-68-12(2963)
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः।
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः॥ 1-68-13(2964)
अशोको नाम राजाऽभून्महावीर्योऽपराजितः।
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः॥ 1-68-14(2965)
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः।
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः॥ 1-68-15(2966)
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः।
अजकस्त्ववरो राजन्य आसीद्वृषपर्वणः॥ 1-68-16(2967)
स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः।
अश्वग्रीव इति ख्यातः सत्ववान्यो महासुरः॥ 1-68-17(2968)
रोचमान इति ख्यातः पृथिव्यां कोऽभवन्नृपः।
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः॥ 1-68-18(2969)
बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः।
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः॥ 1-68-19(2970)
सेनाबिन्दुरिति ख्यातः स बूभव नराधिपः।
इषुमान्नाम यस्तेषामसुराणां बलाधिकः॥ 1-68-20(2971)
नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः।
एकचक्र इति ख्यात आसीद्यस्तु महासुरः॥ 1-68-21(2972)
प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ।
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः॥ 1-68-22(2973)
चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः।
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः॥ 1-68-23(2974)
सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः।
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः॥ 1-68-24(2975)
बाह्लिको नाम राजा स बभूव प्रथितः क्षितौ।
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः॥ 1-68-25(2976)
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः।
निकुम्भस्त्वजितः संख्ये महामतिरजायत॥ 1-68-26(2977)
भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्मृतः।
शरभो नाम यस्तेषां दैतेयानां महासुरः॥ 1-68-27(2978)
पौरवो नाम राजर्षिः स बभूव नरोत्तमः।
कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः॥ 1-68-28(2979)
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः।
कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः॥ 1-68-29(2980)
पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः।
द्वितीयः शलभस्तेषामसुराणां बभूव ह॥ 1-68-30(2981)
प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः।
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः॥ 1-68-31(2982)
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः।
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः॥ 1-68-32(2983)
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः।
मृतपा इति विख्यातो य आसीदसुरोत्तमः॥ 1-68-33(2984)
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम।
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः॥ 1-68-34(2985)
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः।
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः॥ 1-68-35(2986)
स विश्व इति विख्यातो बभूव पृथिवीपतिः।
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः॥ 1-68-36(2987)
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः।
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः॥ 1-68-37(2988)
शुनको नाम राजर्षिः स बभूव नराधिपः।
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः॥ 1-68-38(2989)
जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः।
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः॥ 1-68-39(2990)
काशिराजः स विख्यातः पृथिव्यां पृथिवीपते।
ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम्।
स क्राथ इति विख्यातो बभूव मनुजाधिपः॥ 1-68-40(2991)
दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः।
विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः॥ 1-68-41(2992)
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः।
पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः॥ 1-68-42(2993)
बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः।
पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः॥ 1-68-43(2994)
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः।
मणिमान्नाम राजर्षिः स बभूव नराधिपः॥ 1-68-44(2995)
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ॥ 1-68-45(2996)
क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः।
दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः॥ 1-68-46(2997)
कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः॥ 1-68-47(2998)
मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः।
अष्टानां प्रवरस्तेषां कालेयानां महासुरः॥ 1-68-48(2999)
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः।
अपराजित इत्येवं स बभूव नराधिपः॥ 1-68-49(3000)
तृतीयस्तु महातेजा महामायो महासुरः।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः॥ 1-68-50(3001)
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः।
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः॥ 1-68-51(3002)
पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः।
महौजा इति विख्यातो बभूवेह परन्दपः॥ 1-68-52(3003)
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः।
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः॥ 1-68-53(3004)
समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात्।
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्॥ 1-68-54(3005)
बृहन्नामाष्टमस्तेषां कालेयानां नराधिप।
बभूव राजा धर्मात्मा सर्वभूतहिते रतः॥ 1-68-55(3006)
कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः।
पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः॥ 1-68-56(3007)
क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः।
सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः॥ 1-68-57(3008)
असुराणां तु यः सकूर्यः श्रीमांश्चैव महासुरः।
दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम्॥ 1-68-58(3009)
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः।
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः॥ 1-68-59(3010)
मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा।
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः॥ 1-68-60(3011)
क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः।
चीरवासाश्च कौरव्य भूमिपालश्च नामतः॥ 1-68-61(3012)
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव दानवः।
रुक्मी च नृपशार्दूलो राजा च जनमेजयः॥ 1-68-62(3013)
आषाढो वायुवेगश्च भूरितेजास्तथैव च।
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः॥ 1-68-63(3014)
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च।
श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च॥ 1-68-64(3015)
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः।
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः॥ 1-68-65(3016)
गणात्क्रोधवशादेष राजपूगोऽभवत्क्षितौ।
जातः पुरा महाभागो महाकीर्तिर्महाबलः॥ 1-68-66(3017)
कालनेमिरिति ख्यातो दानवानां महाबलः।
स कंस इति विख्यात उग्रसेनसुतो बली॥ 1-68-67(3018)
यस्त्वासीद्देवको नाम देवराजसमद्युतिः।
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः॥ 1-68-68(3019)
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत।
अशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम्॥ 1-68-69(3020)
धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः।
महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर॥ 1-68-70(3021)
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम्॥ 1-68-71(3022)
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत।
एकत्वमुपसंपद्य जज्ञे शूरः परन्तपः॥ 1-68-72(3023)
अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः।
वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः॥ 1-68-73(3024)
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः।
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च॥ 1-68-74(3025)
तेषामवरजो भीष्मः कुरूणामभयङ्करः।
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः॥ 1-68-75(3026)
जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः।
योऽप्युध्यत महातेजा भार्गवेण महात्मना॥ 1-68-76(3027)
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ।
रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम्॥ 1-68-77(3028)
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः।
द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम्॥ 1-68-78(3029)
सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः।
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः॥ 1-68-79(3030)
द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात्।
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः॥ 1-68-80(3031)
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्।
तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम्॥ 1-68-81(3032)
मरुतां तु गणाद्विद्धि संजातमरिमर्दनम्।
विराटं नाम राजानं परराष्ट्रप्रतापनम्॥ 1-68-82(3033)
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः।
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः॥ 1-68-83(3034)
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः।
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः॥
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत॥ 1-68-84(3035)
`मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः।
पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः।'
तस्यैवावरजो भ्राता महासत्वो महाबलः॥ 1-68-85(3036)
धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम्।
विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम्॥ 1-68-86(3037)
कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः।
दुर्बद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः॥ 1-68-87(3038)
जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः।
यः सर्वां घातयामास पृथिवीं पृथिवीपते॥ 1-68-88(3039)
उद्दीपितं येन वैरं भूतान्तकरणं महत्।
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह॥ 1-68-89(3040)
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्।
दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः॥ 1-68-90(3041)
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ।
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः॥ 1-68-91(3042)
जनमेजय उवाच। 1-68-92x(326)
ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय॥ 1-68-92(3043)
वैशम्पायन उवाच। 1-68-93x(327)
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा।
दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः॥ 1-68-93(3044)
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः।
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः॥ 1-68-94(3045)
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च।
चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह॥ 1-68-95(3046)
दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः।
ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ॥ 1-68-96(3047)
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ।
चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः॥ 1-68-97(3048)
अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ।
भीमवेगो भीमबलो बलाकी भीमविक्रमः॥ 1-68-98(3049)
उग्रायुधो भीमशरः कनकायुर्दृढायुधः।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः॥ 1-68-99(3050)
जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक्।
उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च॥ 1-68-100(3051)
अपराजितः पण्डितको विशालाक्षो दुराधनः॥ 1-68-101(3052)
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ।
आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ॥ 1-68-102(3053)
कवाची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः।
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः॥ 1-68-103(3054)
अभयो रौद्रकर्मा च तथा दृढरथश्च यः।
अनाधृष्यः कुम्डभेदी विरावी दीर्घलोचनः॥ 1-68-104(3055)
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः।
कुण्डजश्चित्रकश्चैव दुःशला च शताधिका॥ 1-68-105(3056)
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः।
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता॥ 1-68-106(3057)
नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः।
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः॥ 1-68-107(3058)
सर्वे वेदविदश्चैव राजञ्शास्त्रे च परागाः।
सर्वे सङ्घ्रामविद्यासु विद्याभिजनशोभिनः॥ 1-68-108(3059)
सर्वेषामनुरूपाश्च कृता दारा महीपते।
दुःशलां समये राजसिन्धुराजाय कौरवः॥ 1-68-109(3060)
जयद्रथाय प्रददौ सौबलानुमते तदा।
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम्॥ 1-68-110(3061)
भीमसेनं तु वातस्य देवराजस्य चार्जुनम्।
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि॥ 1-68-111(3062)
नकुलः सहदेवश्च सर्वभूतमनोहरौ।
स्युवर्चा इति ख्यातः सोमपुत्रः प्रतापवान्॥ 1-68-112(3063)
सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत्।
यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम्॥ 1-68-113(3064)
नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम्।
समयः क्रियतामेष न शक्यमतिवर्तितुम्॥ 1-68-114(3065)
सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः।
तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम्॥ 1-68-115(3066)
ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा।
सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान्॥ 1-68-116(3067)
तस्यायं भविता पुत्रो बालो भुवि महारथः।
ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः॥ 1-68-117(3068)
अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति।
यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम्॥ 1-68-118(3069)
नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः।
चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः॥ 1-68-119(3070)
विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः।
बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति॥ 1-68-120(3071)
महारथानां वीराणां कदनं च करिष्यति।
सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति॥ 1-68-121(3072)
दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति।
ततो महारथैर्वीरैः समेत्य बहुशो रणे॥ 1-68-122(3073)
दिनक्षये महाबाहुर्मया भूयः समेष्यति।
एकं वंशकरं पुत्रं वीरं वै जनयिष्यति॥ 1-68-123(3074)
प्रनष्टं भारतं वंशं स भूयो धारयिष्यति। 1-68-124(3075)
वैशम्पायन उवाच।
एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः॥ 1-68-124x(328)
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन्।
एवं ते कथितं राजंस्तव जन्म पितुः पितुः॥ 1-68-125(3076)
अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथण्।
शिखण्डिनमथो राजंस्त्रीपूर्वं विद्धि राक्षसम्॥ 1-68-126(3077)
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ।
विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ॥ 1-68-127(3078)
प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान्॥ 1-68-128(3079)
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्।
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि। 1-68-129(3080)
पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान्।
अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा॥ 1-68-130(3081)
अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया।
अददत्कुन्तिभोजाय स तां दुहितरं तदा॥ 1-68-131(3082)
सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने।
उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम्॥ 1-68-132(3083)
निकूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।
समुग्रं शंसितात्मानं सर्वयत्नैरतोषयत्॥ 1-68-133(3084)
तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि।
उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव॥ 1-68-134(3085)
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि॥ 1-68-135(3086)
एवमुक्ता च सा बाला तदा कौतूहलान्विता।
कन्या सती देवमर्कमाजुहाव यशस्विनी॥ 1-68-136(3087)
प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा।
अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम्॥ 1-68-137(3088)
सकुण्डलं सकवचं देवगर्भं श्रियान्वितम्।
दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम्॥ 1-68-138(3089)
निगूहमाना जातं वै बन्धुपक्षभयात्तदा।
उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम्॥ 1-68-139(3090)
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः।
राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा॥ 1-68-140(3091)
चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ।
दंपती वसुषेणेति दिक्षु सर्वासु विश्रुतम्॥ 1-68-141(3092)
संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत्।
वेदाङ्गानि च सर्वाणि जजाप जपतां वरः॥ 1-68-142(3093)
यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः।
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः॥ 1-68-143(3094)
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः।
ययाचे कुण्डले वीरं कवचं च सहाङ्गजम्॥ 1-68-144(3095)
उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा॥
शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत्॥ 1-68-145(3096)
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्।
यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति॥ 1-68-146(3097)
वैशम्पायन उवाच। 1-68-147x(329)
पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ।
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्॥ 1-68-147(3098)
आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः।
स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः॥ 1-68-148(3099)
स तु सूतकुले वीरो ववृधे राजसत्तम।
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम्॥ 1-68-149(3100)
दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्।
दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम्॥ 1-68-150(3101)
यस्तु नारायणो नाम देवदेवः सनातनः।
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान्॥ 1-68-151(3102)
शेषस्यांशश्च नागस्य बलदेवो महाबलः।
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम्॥ 1-68-152(3103)
एवमन्ये मनुष्येन्द्रा बहवोंशा दिवौकसाम्।
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः॥ 1-68-153(3104)
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः।
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य ह॥ 1-68-154(3105)
तानि षोडशदेवीनां सहस्राणि नराधिप।
बभूवुर्मानुषे लोके वासुदेवपरिग्रहः॥ 1-68-155(3106)
श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले।
[भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः॥ 1-68-156(3107)
द्रौपदी त्वथ संजज्ञे शची भागादनिन्दिता।]
द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता॥ 1-68-157(3108)
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी।
पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा॥ 1-68-158(3109)
सर्वलक्षणसंपन्ना वैदूर्यमणिसंनिभा।
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः॥ 1-68-159(3110)
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते।
कुन्ती माद्री च जज्ञाते मतिस्तु कुबलात्मजा॥ 1-68-160(3111)
इति देवासुराणां ते गन्धर्वाप्सरसां तथा।
अंशावतरणं राजन्राक्षसानां च कीर्तितम्॥ 1-68-161(3112)
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः।
महात्मानो यदूनां च ये जाता विपुले कुले॥ 1-68-162(3113)
ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः।
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्॥ 1-68-163(3114)
इदमंशावतरणं श्रोतव्यमनसूयता।
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम्॥ 1-68-164(3115)
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति॥ ॥ 1-68-165(3116)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टषष्टितमोऽध्यायः॥ 68 ॥

Mahabharata - Adi Parva - Chapter Footnotes
कुण्डलितोयं पाठः क्वचिन्न दृश्यते।


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.